भारतदेशे पुराण प्रसिद्धानि तीर्थानि
भारतदेशे पुराण प्रसिद्धानि तीर्थानि
महाभारतस्य खिलभागत्वेन प्रसिद्ध: तथा पुराणनाम्नापि ख्यात: ग्रन्थ: हरिवंश: । कृष्णावतारकथा: विस्तृततया अत्र वर्णिता: सन्ति । भागवते-भारते या: कथा: न उल्लिखिता: तेषामपि अत्र कथनं दृश्यते । तथा च पुराणसदृशोयं ग्रन्थ: । अस्मिन् हरिवंशे विंशदाधिकानि स्तोत्राणि सन्दृश्यन्ते । तेषु अनेकेषां देवतानां स्तुति: वर्तते । तेषु स्तोत्रेषु आर्यास्तुति: इति एकं स्तोत्रम् प्रसिद्धम् अस्ति । तत्र भारतस्य नानातीर्थानाम् उल्लेखं पश्याम: । तथा च तीर्थपरिचय: अत्र उद्देश: ।